रेफो हि कोटी जन्माघं कर्मभोगं शुभाशुभम् ।।
आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत् ।।
धकार आयुषो हानिमाकारो भवबन्धनम् ।।
श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः ।।
रेफ़ो हि निश्चलां भक्तिं दास्यं कृष्णपदाम्बुजे ।।
सर्वेप्सितं सदानन्दं सर्वसिद्धौघमीश्वरम् ।।
धकारः सहवासं च तत्तुल्यकालमेव च ।।
ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम् ।।
आकरस्तेजसां राशिं दानशक्तिं हरौ यथा ।।
योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् ।।
श्रुत्युक्तिस्मरणाद्योगान्मोहजालं च किल्बिषम् ।।
रोगशोक मृत्युयमा वेपन्ते नात्र संशयः ।।
।। इति श्री राधा नाम महात्म्य स्तोत्र संपूर्णं ।।

